मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५६, ऋक् ५

संहिता

अग्ने॑ के॒तुर्वि॒शाम॑सि॒ प्रेष्ठ॒ः श्रेष्ठ॑ उपस्थ॒सत् ।
बोधा॑ स्तो॒त्रे वयो॒ दध॑त् ॥

पदपाठः

अग्ने॑ । के॒तुः । वि॒शाम् । अ॒सि॒ । प्रेष्ठः॑ । श्रेष्ठः॑ । उ॒प॒स्थ॒ऽसत् ।
बोध॑ । स्तो॒त्रे । वयः॑ । दध॑त् ॥

सायणभाष्यम्

हे अग्ने विशां प्रजानां यजमानां केतुः केतयितासि। ज्ञापयिता भवसि। अत एव प्रेष्ठः प्रियतमः श्रेष्ठः प्रशस्यतमश्च भवसि। स त्वमुपस्थसदुपस्थाने यज्ञगृहे निषीदन्बोध। अस्मदीयम् स्तोत्रमवगच्छा। किं कुर्वन्। स्तोत्रे स्तुवते जनाय वयोऽन्नं दधिद्विदधत् कुर्वन् प्रयच्छन्॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४