मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५७, ऋक् ५

संहिता

प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥

पदपाठः

प्र॒त्यञ्च॑म् । अ॒र्कम् । अ॒न॒य॒न् । शची॑भिः । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥

सायणभाष्यम्

शचीभिः कर्मभिः परिचरनात्मकैः सार्धमर्कमर्चनसाधनं स्तोत्रं प्रत्यञ्चमिन्द्रादीन्प्रत्यञ्चदनयन्। स्तोतारः प्रापयन्। यदैवं आदिदनन्तरमेवेषिरां गमनशीलं स्वधां वृष्ट्युदकं पर्यपश्यन्। सर्वे जनाः परितः पश्यन्ति। यद्वा। इषिरामेषणीयां स्वधाम् । अन्ननामैतत्। हविर्लक्षनमन्नं सर्वे देवाः परिपश्यन्ति॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५