मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५९, ऋक् २

संहिता

अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी ।
ममेदनु॒ क्रतुं॒ पति॑ः सेहा॒नाया॑ उ॒पाच॑रेत् ॥

पदपाठः

अ॒हम् । के॒तुः । अ॒हम् । मू॒र्धा । अ॒हम् । उ॒ग्रा । वि॒ऽवाच॑नी ।
मम॑ । इत् । अनु॑ । क्रतु॑म् । पतिः॑ । से॒हा॒नायाः॑ । उ॒प॒ऽआच॑रेत् ॥

सायणभाष्यम्

अहम् केतुः केतयित्री सर्वस्य ज्ञात्री भवामि। अहं मूर्धा सर्वेष्ववयवेषु शिर इव प्रधानभूता च भवामि। अहमुग्रोद्गूणा सती विवाचनी विशेषेन पतिं वाचयित्री भवामि। क्रोधाविष्टमपि पतिं मयि सर्वदा प्रियवचनयुक्तं करोमीत्यर्थः। सेहानायाः सपत्नीनामभिभवित्र्या ममेन्ममैव क्रतुम् कर्म बुद्धिं वानुलक्ष्य पतिः पालयिता भर्तोपाचरेत्। उपागच्छेत्। नान्यासां पत्नीनाम्॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७