मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६०, ऋक् ४

संहिता

अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोम॑म् ।
निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ ह॒न्त्यना॑नुदिष्टः ॥

पदपाठः

अनु॑ऽस्पष्टः । भ॒व॒ति॒ । ए॒षः । अ॒स्य॒ । यः । अ॒स्मै॒ । रे॒वान् । न । सु॒नोति॑ । सोम॑म् ।
निः । अ॒र॒त्नौ । म॒घऽवा॑ । तम् । द॒धा॒ति॒ । ब्र॒ह्म॒ऽद्विषः॑ । ह॒न्ति॒ । अन॑नुऽदिष्टः ॥

सायणभाष्यम्

अस्य यजमानस्यैष इन्द्रोऽनुस्पष्टो दृष्तिगोचरो भवति यो रेवान्धनवानस्मा इन्द्राय सोमं सुनोति अभिषुणोति। मघवा धनोपेत इन्द्रस्तं यजमानमरत्नौ हस्ते निर्दधाति भयान्निकृष्य धारयति रक्षिता सन् धृत्वा चानुनुदिष्टस्तेनानुक्तोऽप्रार्थित एव सन्ब्रह्मद्विषो ब्राह्मनद्वेष्टॄञ्शत्रून्हन्ति। हिनस्ति॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८