मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६०, ऋक् ५

संहिता

अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हवा॑महे॒ त्वोप॑गन्त॒वा उ॑ ।
आ॒भूष॑न्तस्ते सुम॒तौ नवा॑यां व॒यमि॑न्द्र त्वा शु॒नं हु॑वेम ॥

पदपाठः

अ॒श्व॒ऽयन्तः॑ । ग॒व्यन्तः॑ । वा॒जय॑न्तः । हवा॑महे । त्वा॒ । उप॑ऽग॒न्त॒वै । ऊं॒ इति॑ ।
आ॒ऽभूष॑न्तः । ते॒ । सु॒ऽम॒तौ । नवा॑याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ । शु॒नम् । हु॒वे॒म॒ ॥

सायणभाष्यम्

शुनासीरीये पर्वणीन्द्राय शुनासीराय पुरोडाशं द्वादशकपालमित्यस्याश्वायन्त इत्येषा याज्या। इन्द्रो देवा शुन इति वैकल्पिकस्यापि हविष इयमेव याज्या। सूत्रितं च। अश्वायन्तो गव्यन्तो वाजयन्तः शुनं हुवेम मघवानमिन्द्रम्। आ. २-२०। इति॥

अश्वायन्तोऽश्वानिच्छन्तः। क्यच्यश्वाघस्यात्। पा. ७-४-३७। इत्यात्वम्। गव्यन्तो गा आत्मन इच्छन्तः। वान्तो यि प्रत्यय इत्यवादेशः। वाजयन्तोऽग्नीन्वाजनेन शूर्पादिना प्रज्वलयन्तः। वा गतिगन्धनयोः। णिचि वो विधूनने। पा. ७-३-३८। इति जुगागमः। अस्माच्छतर्यदुपदेशाल्लसार्वधादुकस्वरेणानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे ततो णिच एव स्वरः शिष्यते। अपर आह। वाजमन्नमात्मन इच्छन्त इति। तदानीमवग्रहभवस्वरौ छान्दसौ द्रष्टव्यौ। एवंभूता वयं हे इन्द्र त्वामुपगन्तवा उपगन्तुं प्राप्तुम् हवामहे। आह्वयामहे। गमेस्तुमर्थे सेसेनिति तवैप्रत्ययः। गतिसमासे तवै चान्तश्च युगपदिति गतेः प्रकृतिस्वरत्वमुत्तरपदस्यान्तोदात्तत्वम्। उ इति पूरकः। हे इन्द्र ते तव नवायामभिन्वायां प्रशस्तायां सुमतौ शोभनबुद्धावाभूषन्त आ समन्ताद्भवन्तो वर्तमानाः। यद्वा। आ समन्ताद्भूषयन्तोऽलङ्कुर्वन्तस्तवानुग्रहबुद्धौ वर्तमाना वयं शुनं सुखकरं त्वां हुवेम। आह्वयेम॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८