मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६१, ऋक् २

संहिता

यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं नी॑त ए॒व ।
तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा॑र्षमेनं श॒तशा॑रदाय ॥

पदपाठः

यदि॑ । क्षि॒तऽआ॑युः । यदि॑ । वा॒ । परा॑ऽइतः । यदि॑ । मृ॒त्योः । अ॒न्ति॒कम् । निऽइ॑तः । ए॒व ।
तम् । आ । ह॒रा॒मि॒ । निःऽऋ॑तेः । उ॒पऽस्था॑त् । अस्पा॑र्षम् । ए॒न॒म् । श॒तऽशा॑रदाय ॥

सायणभाष्यम्

यदि स रोगग्रस्तः क्षितायुः क्षीणायुर्भवति यदि वा परेतोऽस्माल्लोकात्परागतो भवति यदि च मृत्योर्वैवस्वतस्यान्तिकं निकटं नीतो नितरां प्राप्त एव भवति एवं भूतमपि तं पुरुषं निरृतेः पापदेवताया आयुषः क्षयकारिण्या उपस्थादुपस्थानादा हरामि। आनाययामि। आवर्तयामि। आहृत्य चैनं शतशारदाय शतसंवत्सरजीवनार्थमस्पार्षम्। प्रबलं करोमि। स्पृ प्रीतिबलनयोः॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९