मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६१, ऋक् ५

संहिता

आहा॑र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागा॑ः पुनर्नव ।
सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षु॒ः सर्व॒मायु॑श्च तेऽविदम् ॥

पदपाठः

आ । अ॒हा॒र्ष॒म् । त्वा॒ । अवि॑दम् । त्वा॒ । पुनः॑ । आ । अ॒गाः॒ । पु॒नः॒ऽन॒व॒ ।
सर्व॑ऽअङ्ग । सर्व॑म् । ते॒ । चक्षुः॑ । सर्व॑म् । आयुः॑ । च॒ । ते॒ । अ॒वि॒द॒म् ॥

सायणभाष्यम्

हे व्याधि गृहीत त्वा त्वामाहार्षम्। मृत्योः सकाशादाहृतवानस्मि। अत एव त्वा त्वामविदम्। अलप्सि। हे पुनर्नव पुनरभिनव पुनरागाः। पुनरस्मत्समीपमागच्छ। हे सर्वाङ्ग सर्वैरविकलैरङ्गैरुपेत ते तव सर्वम् चक्षुः। उपलक्षणमेतत्। इन्द्रियवर्गं सकलमविदम्। लब्धवानस्मि। ते तवायुर्जीवनं च सर्वं सम्पूर्णमविदम्॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९