मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६३, ऋक् ३

संहिता

आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ ।
यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥

पदपाठः

आ॒न्त्रेभ्यः॑ । ते॒ । गुदा॑भ्यः । व॒नि॒ष्ठोः । हृद॑यात् । अधि॑ ।
यक्ष्म॑म् । मत॑स्नाभ्याम् । य॒क्नः । प्ला॒शिऽभ्यः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥

सायणभाष्यम्

हे यक्ष्माभिभूत ते तवांत्रेभ्यः। आन्त्रं पुरीतदन्नपानयोराधानभूतम्। तत्संबन्धिभ्यः स्नायुभ्यो गुदाभ्यः याभिर्नाडिभिरन्नरसः समानवायुना धातुषुनीयते ताब्यो नाडीभ्यश्च सकाशाद्यक्ष्म वि वृहामि। तथा वनिष्थोः स्थविरान्त्राद्धृदयादधि हृत्पुण्डरीकाच्च यक्श्मं वि वृहामि। अपि च ते तव मतस्नाभ्याम्। मतस्नौ पार्श्वयोर्वर्तमानावाम्रफलाकृती वृक्कौ। ताभ्यां यक्नः। हृदयसमीपे वर्तमानह् कालमांसविशेशो यकृत्। तस्माच्च। पद्दन्नित्यादिना यकृच्छब्दस्य यकन्नादेशः। प्लाशिभ्योऽन्येभ्योऽपि क्लोमप्लीहादिसम्ज्ञेभ्यश्च मांसेभ्यश्च यक्श्मं रोगं वि वृहामि। उत् क्षिपामि॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१