मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६३, ऋक् ४

संहिता

ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् ।
यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ॥

पदपाठः

ऊ॒रुऽभ्या॑म् । ते॒ । अ॒ष्ठी॒वत्ऽभ्या॑म् । पार्ष्णि॑ऽभ्याम् । प्रऽप॑दाभ्याम् ।
यक्ष्म॑म् । श्रोणि॑ऽभ्याम् । भास॑दात् । भंस॑सः । वि । वृ॒हा॒मि॒ । ते॒ ॥

सायणभाष्यम्

हे रुग्ण ते तवोरुभ्यामष्ठीवद्भ्यां जानुभ्यां च यक्ष्मं वि व्रुहामि। तथा पार्ष्णिभ्यां पादस्यापरभागाभ्यां प्रपदाभ्यां पादाग्राभ्यां च यक्ष्मं वि वृहामि। अपि च श्रोणिभ्यां जङ्घनाभ्यां च यक्ष्मं वि वृहामि। तथा भासदात्। भसत्कटिप्रदेशः। तत्संबन्धाद्भसंसो भासमानात्पादयोस्ते तव यक्ष्मं वि व्रुहामि॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१