मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्य॑ः ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥
मेह॑नात् । व॒न॒म्ऽकर॑णात् । लोम॑ऽभ्यः । ते॒ । न॒खेभ्यः॑ ।
यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥
वनङ्करणात्। वनमुदकं शारीरम् । तत्क्रियते विसृज्यते येन तद्वनङ्करणम्। तस्मान्मेहनान्मेढ्रात्ते तव लोमभ्यो नखेभ्यश्च यक्ष्मं वि वृहामि। किं बहुना। इदमिदानीं तं यक्श्मम् सर्वस्मादात्मनः कृत्स्नादेव ते तव शरीराद्वि वृहामि॥५॥