मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६६, ऋक् १

संहिता

ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिम् ।
ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् ॥

पदपाठः

ऋ॒ष॒भम् । मा॒ । स॒मा॒नाना॑म् । स॒ऽपत्ना॑नाम् । वि॒ऽस॒स॒हिम् ।
ह॒न्तार॑म् । शत्रू॑णाम् । कृ॒धि॒ । वि॒ऽराज॑म् । गोऽप॑तिम् । गवा॑म् ॥

सायणभाष्यम्

ऋषभमिति पञ्चर्चम् पञ्चदशं सूक्तं वैराजस्य शाक्वरस्य वर्षभाख्यस्यार्षं पञ्चमी षडष्टका महापङ्क्तिः। सपत्ननाशनरूपोऽर्थो देवता। तथा चानुक्रान्तम्। ऋषभमृषभो वैराजः शाक्वरो वा सपत्नघ्नमानुष्टुभं महापङ्क्त्यन्तमिति। प्रयाणसमये..... जपेत्। सूत्रितं च। ऋशभं मा समानानामित्यभिक्रामन्। आ. गृ. २-६-१३। इति॥

हे सपत्ननाशनाभिमानिन्निन्द्र मा मां समानानां सदृशानामस्मत्कुलिनानां मध्य ऋषभमृषभवत्प्रशस्तं कृधि। कुरु। तथा सपत्नानां शत्रूणां विषासहिं विशेषेणाभिभवितारं कुरु। येऽस्मत्कुल एव जाता अस्माकमेवानिष्टमाचरन्ति ते सपत्नाः। अपि च शत्रूणामन्येषामपि शातयितॄणाम् वैरिणां हन्तारं हिंसितारम् कृधि। कुरु। तथा विराजं विशेषेण राजमानं गोपतिं गोस्वामिनम् च मां कुरु। न केवलमेकस्या एव गोः पतिं अपि तु सर्वासामित्याह गवामिति॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४