मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६६, ऋक् २

संहिता

अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒ अक्ष॑तः ।
अ॒धः स॒पत्ना॑ मे प॒दोरि॒मे सर्वे॑ अ॒भिष्ठि॑ताः ॥

पदपाठः

अ॒हम् । अ॒स्मि॒ । स॒प॒त्न॒ऽहा । इन्द्रः॑ऽइव । अरि॑ष्टः । अक्ष॑तः ।
अ॒धः । स॒ऽपत्नाः॑ । मे॒ । प॒दोः । इ॒मे । सर्वे॑ । अ॒भिऽस्थि॑ताः ॥

सायणभाष्यम्

अहं सपतन् हा सपत्नानां शत्रूणां हन्तास्मि। भवामि। इन्द्र इवेन्द्रो यथा केनाप्यहिंसितो भवति तथाहमप्यरिष्टोऽहिंसितोऽक्शतोऽव्रणश्च भवामि। इमे दृश्यमानाः सर्वे सपत्ना मे मम पदोः पादयोरधोऽधस्तादभिष्ठिता आक्रान्ता भवन्तु॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४