मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६६, ऋक् ३

संहिता

अत्रै॒व वोऽपि॑ नह्याम्यु॒भे आर्त्नी॑ इव॒ ज्यया॑ ।
वाच॑स्पते॒ नि षे॑धे॒मान्यथा॒ मदध॑रं॒ वदा॑न् ॥

पदपाठः

अत्र॑ । ए॒व । वः॒ । अपि॑ । न॒ह्या॒मि॒ । उ॒भे इति॑ । आर्त्नी॑ इ॒वेत्यार्त्नी॑ऽइव । ज्यया॑ ।
वाचः॑ । प॒ते॒ । नि । से॒ध॒ । इ॒मान् । यथा॑ । मत् । अध॑रम् । वदा॑न् ॥

सायणभाष्यम्

हे सपत्नाह् यत्र देशे यूयं निवसथ अत्रैवास्मिन्नेव देशे वो युष्मानपि नह्यामि। अपिनद्धान्पाशैर्बद्धान्करोमि ज्यया मौर्व्यार्त्नी इव। यथा द्वे धनुषः कोटी दृढं बध्येते तथेत्यर्थः। हे वाचस्पते वाचः शब्दस्य पालयितर्देव इमान्सपत्नान्निषेध। प्रतिषेध। यथा येन प्रकारेन मन्मत्तोऽधरं निकृष्टतरम् वदान् वदन्ति तथा निरुद्धवाचः कुर्वित्यर्थः।।३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४