मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६६, ऋक् ४

संहिता

अ॒भि॒भूर॒हमाग॑मं वि॒श्वक॑र्मेण॒ धाम्ना॑ ।
आ व॑श्चि॒त्तमा वो॑ व्र॒तमा वो॒ऽहं समि॑तिं ददे ॥

पदपाठः

अ॒भि॒ऽभूः । अ॒हम् । आ । अ॒ग॒म॒म् । वि॒श्वऽक॑र्मेण । धाम्ना॑ ।
आ । वः॒ । चि॒त्तम् । आ । वः॒ । व्र॒तम् । आ । वः॒ । अ॒हम् । सम्ऽइ॑तिम् । द॒दे॒ ॥

सायणभाष्यम्

हे सपत्नाः अभिभूरभिभविताहं विश्वकर्मेन सर्वकर्मक्षमेण धाम्ना धारकेण तेजसा बलेन्द् वा सार्धमागमम् । आगतवानस्मि। अतो वो युश्माकं चित्तं मन आददे। गृह्णामि। मनोगतं धैर्यं हरामीत्यर्थः। वो युश्माकं व्रतं कर्म चाहमा ददे। वो युष्मदीयो यः समितिः सङ्ग्रामः तम् चाहमा ददे। अपहरामि॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४