मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६६, ऋक् ५

संहिता

यो॒ग॒क्षे॒मं व॑ आ॒दाया॒हं भू॑यासमुत्त॒म आ वो॑ मू॒र्धान॑मक्रमीम् ।
अ॒ध॒स्प॒दान्म॒ उद्व॑दत म॒ण्डूका॑ इवोद॒कान्म॒ण्डूका॑ उद॒कादि॑व ॥

पदपाठः

यो॒ग॒ऽक्षे॒मम् । वः॒ । आ॒ऽदाय॑ । अ॒हम् । भू॒या॒स॒म् । उ॒त्ऽत॒मः । आ । वः॒ । मू॒र्धान॑म् । अ॒क्र॒मी॒म् ।
अ॒धः॒ऽप॒दात् । मे॒ । उत् । व॒द॒त॒ । म॒ण्डूकाः॑ऽइव । उ॒द॒कात् । म॒ण्डूकाः॑ । उ॒द॒कात्ऽइ॑व ॥

सायणभाष्यम्

हे सपत्नाः वो युश्माकं योगक्षेमम्। अप्राप्तस्य धनस्य प्राप्तिर्योगः। प्राप्तस्य रक्षणं क्षेमः। तदुभयमादाय युष्मत्तो गृहीत्वाहमुत्तमः श्रेष्ठो भूयास ततो वो युश्माकं मूर्धानं शिर आक्रमीम् । आक्रमिषम्। पादेनाधितिष्ठामि। क्रमेर्लुङ्यमो मश्। पा. ७-१-४०। इट ईटीति सिचो लोपः। अदन्तरम् मे ममाधस्पदात्पादस्याधस्ताद्वर्तमाना यूयमुद्वदत। उच्चैराक्रोशत। उदकाद्वृष्टिजलादधः प्रदेशे वर्तमाना मण्डूका इव। यथा ते भृशमाक्रोशन्ति तथोद्वदतेत्यर्थः। मण्डूका उदकादिवेति पुनरुक्तिरादरार्था॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४