मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६७, ऋक् २

संहिता

स्व॒र्जितं॒ महि॑ मन्दा॒नमन्ध॑सो॒ हवा॑महे॒ परि॑ श॒क्रं सु॒ताँ उप॑ ।
इ॒मं नो॑ य॒ज्ञमि॒ह बो॒ध्या ग॑हि॒ स्पृधो॒ जय॑न्तं म॒घवा॑नमीमहे ॥

पदपाठः

स्वः॒ऽजित॑म् । महि॑ । म॒न्दा॒नम् । अन्ध॑सः । हवा॑महे । परि॑ । श॒क्रम् । सु॒तान् । उप॑ ।
इ॒मम् । नः॒ । य॒ज्ञम् । इ॒ह । बो॒धि॒ । आ । ग॒हि॒ । स्पृधः॑ । जय॑न्तम् । म॒घऽवा॑नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

उक्त प्रकारेण स्वर्गस्य जेतारं महि महान्तमन्धसोऽन्नसोऽन्नस्य सोमस्य पानेन मन्दानं मोदमानं हृष्यन्तं शक्रं सर्वकार्येषु शक्तमिन्द्रं सुतानुपाभिषुतान्सोमान्प्रति परि हवामहे। परित आह्वयामहे। हे इन्द्र इत्थमाहूयमानस्त्वं नोऽस्माकमिमं यज्ञमिहास्मिन्यज्ञे बोधि। बुध्यस्व। बुद्ध्वा चा गहि। आगच्छ। स्पृधः स्पर्धमानाः शत्रुसेना जयन्तमभिभवन्तम् मघवानं धनवन्तं त्वामीमहे। अपेक्शितानि धनानि याचामहे॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५