मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६७, ऋक् ३

संहिता

सोम॑स्य॒ राज्ञो॒ वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या उ॒ शर्म॑णि ।
तवा॒हम॒द्य म॑घव॒न्नुप॑स्तुतौ॒ धात॒र्विधा॑तः क॒लशाँ॑ अभक्षयम् ॥

पदपाठः

सोम॑स्य । राज्ञः॑ । वरु॑णस्य । धर्म॑णि । बृह॒स्पतेः॑ । अनु॑ऽमत्याः । ऊं॒ इति॑ । शर्म॑णि ।
तव॑ । अ॒हम् । अ॒द्य । म॒घ॒ऽव॒न् । उप॑ऽस्तुतौ । धातः॑ । विधा॑त॒रिति॒ विऽधा॑तः । क॒लशा॑न् । अ॒भ॒क्ष॒य॒म् ॥

सायणभाष्यम्

राज्ञो राजमानस्य सोमस्य वरुणस्य च सम्बन्धिन धर्मणि धारके यज्ञे वर्तमानस्तथा बृहस्पतेरनुमत्याः सम्बन्धिनि शर्मणि शरने यज्ञगृहे वर्तमानोऽहं मघवन्निन्द्र तवोपस्तुतौ स्तोत्रेऽद्येदानीं प्रवृत्तोऽस्मि। हे धातहे एतत्संज्ञक देव हे विधातरेतत्संज्ञक देव युवाभ्यामनुज्ञातः कलशान्कलशस्थान्हुतशिष्टान्सोमानभक्षयम् । भक्षितवानस्मि॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५