मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६७, ऋक् ४

संहिता

प्रसू॑तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं॑ चे॒मं प्र॑थ॒मः सू॒रिरुन्मृ॑जे ।
सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे॑ ॥

पदपाठः

प्रऽसू॑तः । भ॒क्षम् । अ॒क॒र॒म् । च॒रौ । अपि॑ । स्तोम॑म् । च॒ । इ॒मम् । प्र॒थ॒मः । सू॒रिः । उत् । मृ॒जे॒ ।
सु॒ते । सा॒तेन॑ । यदि॑ । आ । अग॑मम् । वा॒म् । प्रति॑ । वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी॒ इति॑ । दमे॑ ॥

सायणभाष्यम्

हे इन्द्र प्रसूतस्त्वया प्रेरितोऽहं चरौ चरणीये चरुणा वा युक्ते यज्ञे भक्षमपि भक्षणीयं चर्वादि हविश्चाकरम् । त्वदर्थमकार्षम्। प्रथमो मुख्यः सूरिः स्तोताहमिमं स्तोमं स्तोत्रं च त्वदर्थमुन्मृजे। उन्मार्ज्मि। संस्करोमि। उच्चारयामीत्यर्थः। इदानीमिन्द्रोऽन्तरात्मरूपः सन्। सूक्तस्य द्रष्टाराव्रुषी सम्बोध्यबूर्ते। हे विश्वामित्रजमदग्नी वां युवां प्रति दमे यज्ञगृहे सुतेऽभिषुते सोमे सति सातेन सम्भक्तव्येन धनेन सार्धं यदि यदा यस्मिन्कालेऽहमागमं आगच्छामि तदा युवां स्तोत्रं कुरुतमित्यर्थः॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५