मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६८, ऋक् १

संहिता

वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने॑ति स्त॒नय॑न्नस्य॒ घोषः॑ ।
दि॒वि॒स्पृग्या॑त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो ए॑ति पृथि॒व्या रे॒णुमस्य॑न् ॥

पदपाठः

वात॑स्य । नु । म॒हि॒मान॑म् । रथ॑स्य । रु॒जन् । ए॒ति॒ । स्त॒नय॑न् । अ॒स्य॒ । घोषः॑ ।
दि॒वि॒ऽस्पृक् । या॒ति॒ । अ॒रु॒णानि॑ । कृ॒ण्वन् । उ॒तो इति॑ । ए॒ति॒ । पृ॒थि॒व्या । रे॒णुम् । अस्य॑न् ॥

सायणभाष्यम्

वातस्येति चतुरृचं सप्तदशं सूक्तं वातगोत्रस्यानिलाख्यस्यार्षं त्रैष्टुभं वायुदेवताकम् । तथा चानुक्रान्तम्। वातस्यानिलो वातायनो वायव्यमिति। गतो विनियोगः॥

वातस्य वायो रथस्य रंहणशीलस्य महिमानं माहात्म्यं नु क्शिप्रं प्रब्रवीमि। अस्य वायोर्घोषः शब्दः स्तनयन् गिरिगह्वरादिषु विविधं शब्दमुत्पादयन् रुजन् सर्वं स्थावरजङ्गमजातं भञ्जन्नेति। गच्छति। स च वायुर्दिविस्पृग्दिवमाकांशं स्पृशन् व्याप्नुवन्नरुणान्यरुणवर्णानि विकृतरूपाणि दिगन्तराणि कृण्वन्कुर्वन्याति। प्राप्नोति। उतो अपि च पृथिव्या भूमे रेणुं पांसुमस्यन् गृहीत्वा सर्वत्र विक्षिपन्नेति। गच्छति। अत एवारुणानि कृण्वन्नित्युक्तम्॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६