मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६८, ऋक् २

संहिता

सं प्रेर॑ते॒ अनु॒ वात॑स्य वि॒ष्ठा ऐनं॑ गच्छन्ति॒ सम॑नं॒ न योषा॑ः ।
ताभि॑ः स॒युक्स॒रथं॑ दे॒व ई॑यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥

पदपाठः

सम् । प्र । ई॒र॒ते॒ । अनु॑ । वात॑स्य । वि॒ऽस्थाः । आ । ए॒न॒म् । ग॒च्छ॒न्ति॒ । सम॑नम् । न । योषाः॑ ।
ताभिः॑ । स॒ऽयुक् । स॒ऽरथ॑म् । दे॒वः । ई॒य॒ते॒ । अ॒स्य । विश्व॑स्य । भुव॑नस्य । राजा॑ ॥

सायणभाष्यम्

विष्ठा विशेषेणावस्थिताः पर्व्चताद्या वातस्य वायोरनुगुणम् सं प्रेरते। सम्प्रगच्छन्ति। यदभिमुखो वायुर्वर्तते तदभिमुखाः प्रकम्पन्त इत्यर्थः। समनं न सङ्ग्राममिवैनं वायुं योषा अश्वयोषितो वडवा आ गच्छन्ति। ताभिर्वडवाभिः सयुक् स्वयमेव युज्यमानं सरथं समानमेकं रथमारुह्य देवो दीप्यमानो वायुरीयते। गच्छाति। ईङ् गतौ। अस्य विश्वस्य सर्वस्य भुवनस्य द्वितीयविकारभाजो भूतजातस्य राजा स्वामी भवति। यद्वा समनं धृष्टं पुरुषं योषाः कामिन्य इव एवं वायुं तरुगुल्मादिरूपाः स्त्रियोऽभिगच्छन्ति। ताभिः सरथं सहरथं देव ईयत इति॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६