मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६८, ऋक् ३

संहिता

अ॒न्तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाहः॑ ।
अ॒पां सखा॑ प्रथम॒जा ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ॥

पदपाठः

अ॒न्तरि॑क्षे । प॒थिऽभिः॑ । ईय॑मानः । न । नि । वि॒श॒ते॒ । क॒त॒मत् । च॒न । अह॒रिति॑ ।
अ॒पाम् । सखा॑ । प्र॒थ॒म॒ऽजाः । ऋ॒तऽवा॑ । क्व॑ । स्वि॒त् । जा॒तः । कुतः॑ । आ । ब॒भू॒व॒ ॥

सायणभाष्यम्

अन्तरिक्षे नभसि विद्यमानैः पथिभिर्मार्गैरीयमानो गच्छन्वायुः कतमच्चनाहरेकमपि दिनं न नि विशते। नोपविशति। किन्तु सर्वदैव गच्छाति। नेर्विशः। पा. १-३-१७। इत्यात्मनेपदम्। अपि चापामुदकानाम् सखा। वायुर्वै वृष्ट्या ईश इति श्रुतेः। प्रथमजाः सर्वेभ्यः प्राणिभ्यः पूर्वोत्पन्न एवर्तावा सत्यवान् एवम् भुतो वायुः क्व स्वित् कुत्र खलु देशे जात उत्पन्नः कुतः कस्माच्च देशान्निष्क्रम्या बभूव। इदं सर्वं जगद्व्याप्नोत्। सर्वदा सर्वत्र वर्तमानत्वादस्योत्पतिर्व्याप्ति प्रकारश्च न केनापि ज्ञातुं शक्यत इत्यर्थः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६