मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६९, ऋक् ४

संहिता

प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्दे॒वैः पि॒तृभि॑ः संविदा॒नः ।
शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां॑ व॒यं प्र॒जया॒ सं स॑देम ॥

पदपाठः

प्र॒जाऽप॑तिः । मह्य॑म् । ए॒ताः । ररा॑णः । विश्वैः॑ । दे॒वैः । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः ।
शि॒वाः । स॒तीः । उप॑ । नः॒ । गो॒ऽस्थम् । आ । अ॒क॒रित्य॑कः । तासा॑म् । व॒यम् । प्र॒ऽजया॑ । सम् । स॒दे॒म॒ ॥

सायणभाष्यम्

प्रजापतिर्विधाता मह्यं स्तोत्र एता गा रराणः प्रयच्छन्। रातेर्व्यत्ययेन शानच्। छान्दसः शपः श्लुः। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। विश्वैः सर्वैर्देवैः पितृभिश्च सम्विदान ऐकमत्यं गतः सन् शिवाः सतीः कल्याणीर्भवन्तीर्गा नोऽस्माकं गोष्ठं व्रजमुप गोष्ठसमीपेऽकः। करोतु। तासां गवां प्रजया सन्तानेन वयं सं सदेम। सङ्गच्छेमहि। सदेराशिषि लिङि लिङ्याशिष्यङ्॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७