मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७५, ऋक् १

संहिता

प्र वो॑ ग्रावाणः सवि॒ता दे॒वः सु॑वतु॒ धर्म॑णा ।
धू॒र्षु यु॑ज्यध्वं सुनु॒त ॥

पदपाठः

प्र । वः॒ । ग्रा॒वा॒णः॒ । स॒वि॒ता । दे॒वः । सु॒व॒तु॒ । धर्म॑णा ।
धूः॒ऽसु । यु॒ज्य॒ध्व॒म् । सु॒नु॒त ॥

सायणभाष्यम्

प्र व इति चतुरृचं चतुर्विंशं सूक्तं गायत्रम् । अर्बुदस्य सर्पर्षेः पुत्र ऊर्ध्वग्रावा नामर्षिः। सोमाभिषवार्था ग्रावाणो देवता। तथा चानुक्रान्तम्। प्र वश्चतुष्कमूर्ध्वग्रावार्बुदिर्ग्राव्णोऽस्तौद्गायत्रमिति। ग्रावस्तोत्र एतत्सूक्तम्। सूत्रितं च। अ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोः। आ. ५-१२। इति। यद्वा। इदमेकमेव सूक्तं ग्रावस्तोत्रम्। सूत्र्यते हि। प्र वो ग्रावाण इत्येक उक्तम् सर्पणम्। आ. ५-१२। इति॥

हे ग्रावाणः सोमाभिषवार्थाः पाषाणाः वो युष्मान्सविता प्रेरको देवो धर्मणात्मीयेन धारणेन कर्मणा प्र सुवतु। अभिशवार्थं प्रेरयतु। षू प्रेरणे। तौदादिकः। यूयं च धूर्ष्वभिषवस्थानेशु प्राच्यादिमहादिक्षु युज्यध्वम्। युक्ता भवत। अनन्तरं सुनुत। अभिषुणुत सोमम्॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३