ग्रावा॑णो॒ अप॑ दु॒च्छुना॒मप॑ सेधत दुर्म॒तिम् ।
उ॒स्राः क॑र्तन भेष॒जम् ॥
ग्रावा॑णः । अप॑ । दु॒च्छुना॑म् । अप॑ । से॒ध॒त॒ । दुः॒ऽम॒तिम् ।
उ॒स्राः । क॒र्त॒न॒ । भे॒ष॒जम् ॥
हे ग्रावाणः दुच्छुनां दुःखकारिणीं शत्रुभूतां प्रजामप सेधत। आस्मत्तोऽपगमयत। षिधु गत्याम्। तथा दुर्मतिं दुष्टाभिसन्धिं चाप सेधत। भेषजम् सुखमस्माकं यथा भवति तथोस्रा गा कर्तन। कुरुत। करोतेश्छान्द्सओ विकरणस्य लुक्। तप्तनप्त नथनाश्चेति तनबादेशः॥२॥