मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७५, ऋक् ३

संहिता

ग्रावा॑ण॒ उप॑रे॒ष्वा म॑ही॒यन्ते॑ स॒जोष॑सः ।
वृष्णे॒ दध॑तो॒ वृष्ण्य॑म् ॥

पदपाठः

ग्रावा॑णः । उप॑रेषु । आ । म॒ही॒यन्ते॑ । स॒ऽजोष॑सः ।
वृष्णे॑े॒ । दध॑तः । वृष्ण्य॑म् ॥

सायणभाष्यम्

ग्रावाणो दिक्ष्ववस्थिताः पाषाणाः सजोषसः सह प्रीयमाणाः सङ्गताः सन्तो वोपरेषु। उपरो नामाभिषवाय चतुर्णां ग्राव्णां मध्ये स्थापितो विस्तृतः पाशाणः। प्रदेशापेक्षं बहुवचनम्। उपरस्य प्रान्तेषु महीयन्ते। प्रकाशन्ते। आकारः पूरणः। किं कुर्वन्तः। वृष्णे वर्षित्रे सोमाय वृष्ण्यं वीर्यं दधतः प्रयच्छन्तः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३