मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७५, ऋक् ४

संहिता

ग्रावा॑णः सवि॒ता नु वो॑ दे॒वः सु॑वतु॒ धर्म॑णा ।
यज॑मानाय सुन्व॒ते ॥

पदपाठः

ग्रावा॑णः । स॒वि॒ता । नु । वः॒ । दे॒वः । सु॒व॒तु॒ । धर्म॑णा ।
यज॑मानाय । सु॒न्व॒ते ॥

सायणभाष्यम्

देवो दानादिगुणयुक्तः सविता हे ग्रावाणो वो युष्मान्धर्मणात्मीयेन धारणेन नु क्षिप्रं प्र सुवतु। अभिषवे प्रेरयतु। किमर्थम् । सुन्वते सोमाभिषवं कुर्वते यजमानाय यजमानार्थम्। तस्य यागनिष्पत्तय इत्यर्थः॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३