मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७६, ऋक् १

संहिता

प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वन्त वृ॒जना॑ ।
क्षामा॒ ये वि॒श्वधा॑य॒सोऽश्न॑न्धे॒नुं न मा॒तर॑म् ॥

पदपाठः

प्र । सू॒नवः॑ । ऋ॒भू॒णाम् । बृ॒हत् । न॒व॒न्त॒ । वृ॒जना॑ ।
क्षाम॑ । ये । वि॒श्वऽधा॑यसः । अश्न॑न् । धे॒नुम् । न । मा॒तर॑म् ॥

सायणभाष्यम्

प्र सूनव इति चतुऋचं पञ्चविंशं सूक्तम्। ऋभुपुत्रः सूनुर्नामर्षिः। द्वितीया गायत्री शिष्टास्तिस्रोऽनुष्टुभः। आद्यर्भुदेवत्या शिष्टा आग्नेय्यः। तथा चानुक्रान्तम्। प्र सूनवः सूनुरार्भव आग्नेयमानुष्टुभम् द्वितीयं गायत्र्या द्यार्भवीति। गतो विनियोगः॥

सूनव एतत्संज्ञा ऋभूणाम्। ऋभिर्विभ्वा वाज इति त्रयाणामपि प्रथमेन व्यपदेशः। तेषां पुत्रा बृहत्प्रभूतं वृजना। सङ्ग्रामनामैतत्। वृजनं सङ्ग्रामं प्र नवन्त। नवतिर्गतिकर्मा। प्रगच्छन्ति। प्रकर्षेण गच्छन्ति। प्रकृष्टगमनेन जयो लक्ष्यते। तत्र शत्रूञ्जयन्तीत्यर्थः। सूनुर्नामर्षिरात्मानमेव परोक्षेण निरदिशत्। एकस्मिन्नपि पूजार्थं बहुवचनं य ऋभवो विश्वधायसो विश्वस्य धारकाः क्षाम भूममश्नन् व्याप्नुवन्। अशू व्याप्तौ। व्यत्ययेन श्ना। धेनुं न। धेनुः प्रीणयित्री हौः। तामिव तेषामृभूणामित्यन्वयः। यद्वा। सूर्यरश्मयोऽप्यृभव उच्यन्ते। य उरु भासमानाः सूर्यरश्मयो विश्वधायसो विश्वं सर्वं रसं धयन्तः पिबन्तः। यद्वा। व्रुष्ट्यादिप्रदानेन सर्वस्य धारकाः। एवं भूताः सन्तः क्षाम भूमिमश्नन् अभुञ्जत तदीयं सर्वं रसमपिबन्। तत्र दृष्टान्तः। मातरं जननीं धेनुं पयस्विनीं गां यथा वत्सः पबति तथा । य ऋभवोऽश्नन्ति तेषामृभूणामित्यन्वयः॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४