मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७६, ऋक् ३

संहिता

अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते ।
रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना॑ ॥

पदपाठः

अ॒यम् । ऊं॒ इति॑ । स्यः । प्र । दे॒व॒ऽयुः । होता॑ । य॒ज्ञाय॑ । नी॒य॒ते॒ ।
रथः॑ । न । योः । अ॒भिऽवृ॑तः । घृणि॑ऽवान् । चे॒त॒ति॒ । त्मना॑ ॥

सायणभाष्यम्

अयमु अयमेव स्य सोऽग्निर्देवयुर्देवान्यष्टुमिच्छन्भवति। देवशब्दात्क्यचि न छन्दस्य पुत्रेतीत्वदीर्घयोः प्रतिषेधः। अयमेव होता देवानामाह्वाता। अयमेव यज्ञाय यागार्थं पणीयते। आहवनीयदेशं प्रति प्रकर्षेण नीयते। अपि च रथो रंहणशीलः सूर्यो रथवान्वा। छान्दसो मत्वर्थीयस्य लोपः। स यधा घृणीवान्दीप्तिमान् तद्वद्दीप्तो योर्मिश्रयिता हिविषां देव्यैः सङ्गमयिता। यौतेरन्येभ्योऽपि द्रुश्यन्त इति विच्। अभीव्रुत ऋत्विग्यजमानैरावेष्टितः। वृणोतेः कर्मण्यन्येषामपीति पूर्वपदस्य दीर्घः। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। एवं भुतोऽग्निस्त्मनात्मना। स्वयमेव चेतति। सम्यग्देवान्यष्टुं जानाति। मन्त्रेष्वाङ्यादेरात्मन इत्याकारलोपः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४