मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७७, ऋक् ३

संहिता

अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् ।
स स॒ध्रीची॒ः स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥

पदपाठः

अप॑श्यम् । गो॒पाम् । अनि॑ऽपद्यमानम् । आ । च॒ । परा॑ । च॒ । प॒थिऽभिः॑ । चर॑न्तम् ।
सः । स॒ध्रीचीः॑ । सः । विषू॑चीः । वसा॑नः । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्तरिति॑ ॥

सायणभाष्यम्

प्रवर्ग्येऽभीष्टवेऽपश्यं गोपमित्येशा। सूत्रितं च। अपश्यं गोपामनिपद्यमानं स्रक्वे द्रप्सस्य। आ. ४-६। इति॥

व्याख्यातेयमस्यवामीयसूक्ते। १-१६४-३१। गोपां गोपयितारमादित्यमपश्यम् । अज्ञासिषम् । एष हि सर्वाणि भूतजातान्युदयास्तमयादिकर्मणा गोपायति। कीदृशम् । अनिपद्यमानमुच्चैर्गच्छन्तम्। न ह्यसौ कदाच्न्नेचैः पद्यते। पथिभिराकाशमर्गैः पुर्वाह्ण आ चरन्तमस्मानभिलक्ष्य गच्छन्तं सायं समये परा चरन्तम्। पराङ्मुखं गच्छन्तम्। प्रकारद्वयसमुच्चयार्थौ चशब्दौ। स सूर्यः सध्रीचीः सहाञ्चन्तीः विषुचीर्विविधं पृथक्पृथगञ्चन्तीः स्वस्वव्यापाराय गच्छन्तीः। प्राच्याद्या महादिशः सध्रीच्यो विषूच्यः कोणदिशः। वसानः स्वभासाच्छादयन् प्रकाशयन्भुवनेषु लोकेष्वन्तर्मध्य आ वरीवर्ति। पुनपुनरुद्यन्नस्तं गच्छान्नावर्तते। यद्वा। गोपां शरीरस्य गोपयितारमनिपद्यमानमविनाशनमविपन्नमा च परा चाभिमुखेन च पराङ्मुखेन च पथिभिर्नाडीलक्षणैर्मार्गैश्चरन्तं शरीरे वर्तमानं प्राणमपश्यम् । अहमदर्शम्॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५