मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७९, ऋक् ३

संहिता

श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा॑तं मन्ये॒ तदृ॒तं नवी॑यः ।
माध्यं॑दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन्पुरुकृज्जुषा॒णः ॥

पदपाठः

श्रा॒तम् । म॒न्ये॒ । ऊध॑नि । श्रा॒तम् । अ॒ग्नौ । सुऽश्रा॑तम् । म॒न्ये॒ । तत् । ऋ॒तम् । नवी॑यः ।
माध्य॑न्दिनस्य । सव॑नस्य । द॒ध्नः । पिब॑ । इ॒न्द्र॒ । व॒ज्रि॒न् । पु॒रु॒ऽकृ॒त् । जु॒षा॒णः ॥

सायणभाष्यम्

तस्यैव दधिघर्मस्य श्रातं मन्य इत्येषा याज्या। सूत्र्यते हि। श्रातं मन्य ऊधनि श्रातमग्नाविति यजति। आ. ५-१३। इति॥

ऊधनि गोरूधस्येतद्धधिघर्ममाख्यं हविः पयोरूपेण श्रातं पक्वमिति मन्ये। जाने। पुनश्च दुग्धं पयोऽग्नावपि श्रातं पक्वम्। इदानीं दध्यवस्थमप्यग्नौ पच्यते। अतः सुश्रातं सुपक्वमिति मन्ये। जाने अत एतद्धविरृतं सत्यभूतं नवीयो नवतरं प्रत्यग्रतरं भवति। हे वज्रिन् वज्रवन् हे पुरुकृद्बहुकर्मक्रुदिन्द्र जुषाणः प्रीयमाणस्त्वं माध्यन्दिनस्य माध्यन्दिने भवस्य सवनस्य सोमस्य सम्बन्धिनो दध्नः। कर्मणि षष्ठी। दधिघर्माख्यं हविः पिब॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७