मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८०, ऋक् १

संहिता

प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु ।
इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पति॒ः सिन्धू॑नामसि रे॒वती॑नाम् ॥

पदपाठः

प्र । स॒स॒हि॒षे॒ । पु॒रु॒ऽहू॒त॒ । शत्रू॑न् । ज्येष्ठः॑ । ते॒ । शुष्मः॑ । इ॒ह । रा॒तिः । अ॒स्तु॒ ।
इन्द्र॑ । आ । भ॒र॒ । दक्षि॑णेन । वसू॑नि । पतिः॑ । सिन्धू॑नाम् । अ॒सि॒ । रे॒वती॑नाम् ॥

सायणभाष्यम्

प्र ससाहिष इति तृचमेकोनत्रिंशं सूक्तमिन्द्रपुत्रस्य जयस्यार्षं त्रैष्टुभमैन्द्रम्। तथा चानुक्रान्तम्। प्र ससाहिषे जय ऐन्द्र इति। गतह् सूक्तविनियोगः। दर्श इन्द्रस्य हविषः प्र ससाहिष इत्येशा याह्या। सूत्रितं च। प्र ससाहिसे पुरुहूत शत्रूण् महा इन्द्रो य ओजसा। आ. १-६। इति। एकादशिन ऐन्द्रपशौ पुरोडाशस्येयमेव याज्या। सूत्रितं च। प्र ससाहिषे पुरुहूत शत्रून्स्वस्तये वाजिभिश्च प्रणेतः। आ. ३-७। इति। देवासुवां हविषीन्द्रस्येयमेवानुवाक्या। सूत्रितं च। प्र ससाहिषे पुरुहूत शत्रून्भवस्त्वमिन्द्र ब्रह्मणामहान्। आ. ४-११। इति॥

हे पुरुहूत बहुभिराहूतेन्द्र शत्रून्वैरिणः प्र ससाहिषे। प्रकर्षेणाभिभवसि। ते तव शुष्मः शोषकं बलं ज्येष्ठः प्रशस्यतमं व्रुद्धतमं वा भवति। इहास्मिन्कर्मणि रातिस्तव दानमस्तु। अस्यभ्यं भवतु। तदर्थं हे इन्द्र दक्शिणेन हस्तेन वसूनि धनान्या भर। आहर। आनय। त्वं रेवतीनां रयिमतीनां बहुधनानां सिन्धूनां स्यन्दनशीलानां नदीनां पतिरसि। स्वामी भवसि। रयिशब्दान्मतुपिरयेर्मतौ बहुलमिति सम्प्रसारणम्। छन्दसीर इति मतुपो वत्वम्। रैशब्दाच्चेति तस्योदात्तत्वम्॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८