मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८०, ऋक् २

संहिता

मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गन्था॒ पर॑स्याः ।
सृ॒कं सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न्ताळ्हि॒ वि मृधो॑ नुदस्व ॥

पदपाठः

मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः । प॒रा॒ऽवतः॑ । आ । ज॒ग॒न्थ॒ । पर॑स्याः ।
सृ॒कम् । स॒म्ऽशाय॑ । प॒विम् । इ॒न्द्र॒ । ति॒ग्मम् । वि । शत्रू॑न् । ता॒ळ्हि॒ । वि । मृधः॑ । नु॒द॒स्व॒ ॥

सायणभाष्यम्

वैमृधस्य हविषो मृगो नेत्येषा याज्या। सूत्रितम् च। वि न इन्द्र मृभो जहि मृगो न भीमः कुचरो गिरिष्ठाः। आ. २-१०। इति॥

कुचरः कुत्सितचरणो गिरिष्थाः पर्वतनिवासी मृगो न सिंह इव हे इन्द्र त्वं भीमो भयङ्करोऽसि। सत्वं परस्याः परावतोऽतिशयेन दूराद्द्युलोकादा जगन्थ। आगच्छ। गमेश्छान्दसे लिटि क्रादिनियमप्राप्तस्येट उपदेशेऽत्वतः। पा. ७-२-६२। इति प्रतिषेधः। आगत्य च सृकं सरणशीलं तिग्मं तीक्ष्णं पविं वज्रं संशाय सम्यक् तीक्ष्णीकृत्य शत्रूनस्मदीयान्वैरिणो हे इन्द्र तेन वज्रेण वि ताळ्हि। विशेशेण ताडय। विनाशयेत्यर्थः। तड आघाते। अस्माल्लोटि ण्यन्ताद्रूपमेतत्। तथा मृधः सङ्ग्रामोद्युक्तान्युयुत्सूनन्यानपि वि नुदस्व। विशेषेन तिरस्कुरु॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८