मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८०, ऋक् ३

संहिता

इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम् ।
अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥

पदपाठः

इन्द्र॑ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओजः॑ । अजा॑यथाः । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् ।
अप॑ । अ॒नु॒दः॒ । जन॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । उ॒रुम् । दे॒वेभ्यः॑ । अ॒कृ॒णोः॒ । ऊं॒ इति॑ । लो॒कम् ॥

सायणभाष्यम्

हे इन्द्र क्षत्रं क्षत्रात्त्रायकं वामं वननीयमोजो बलमभिलक्ष्याजायथाः। उत्पन्नोऽसि। हे व्रुशभ कामानां वर्षितः चर्षणीनां मनुष्याणामस्माकम्। नामन्यतरस्यामिति नाम उदात्तत्वम्। अमित्रयन्तम्। अमित्रः शत्रुः। स इवाचरन्तं जनमपानुदः। अपागमयः। देवेभ्यश्चोरुम् विस्तीर्णं लोकं स्वर्गाख्यमकृणोः। अकार्षीः। उशब्दः समुच्चये॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८