मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८१, ऋक् २

संहिता

अवि॑न्द॒न्ते अति॑हितं॒ यदासी॑द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् ।
धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑र्भ॒रद्वा॑जो बृ॒हदा च॑क्रे अ॒ग्नेः ॥

पदपाठः

अवि॑न्दन् । ते । अति॑ऽहितम् । यत् । आसी॑त् । य॒ज्ञस्य॑ । धाम॑ । प॒र॒मम् । गुहा॑ । यत् ।
धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । भ॒रत्ऽवा॑जः । बृ॒हत् । आ । च॒क्रे॒ । अ॒ग्नेः ॥

सायणभाष्यम्

हे धात्रादयस्तदविन्दन् अलभन्त यद्ब्रुहत्सामाख्यं घर्मस्य हविशह् संस्कारकमतिहितम् तिरोहितमासीत्। यच्च बृहत्साम यज्ञस्य ज्योतिष्तोमादेः परममुत्क्रुष्टं धाम धारकं शरीरभूतं वा गुहा गुहायामस्मदादिविषये निहितमासीत् तत्ते धात्रादयोऽलभन्त। तेभ्योग्नेश्च सकाशात्तद्बृहत्साम भरद्वाज ऋषिरा चक्रे। आभिमुख्येन कृतवान्। आहृतवानित्यर्थः॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९