मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८१, ऋक् ३

संहिता

ते॑ऽविन्द॒न्मन॑सा॒ दीध्या॑ना॒ यजु॑ः ष्क॒न्नं प्र॑थ॒मं दे॑व॒यान॑म् ।
धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥

पदपाठः

ते । अ॒वि॒न्द॒न् । मन॑सा । दीध्या॑नाः । यजुः॑ । स्क॒न्नम् । प्र॒थ॒मम् । दे॒व॒ऽयान॑म् ।
धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । आ । सूर्या॑त् । अ॒भ॒र॒न् । घ॒र्मम् । ए॒ते ॥

सायणभाष्यम्

ते धात्रादयो दीध्याना दीप्यमानाः सन्तो मनसा बुद्ध्याविन्दन्। अलभन्त। किं तत्। युजुर्यागसाधनम् स्कन्नं स्कन्दनीयमासेचनीयं प्रवृञ्चनसाधनं प्रथमं मुख्यं देवयानं देवानां प्राप्तिसाधनं घर्मम्। एवं धात्रादिभिः प्रथममुपलब्धं तं घर्मं धातोर्द्योतमानात्सवितुर्विष्णोः सूर्याच्चैत ऋत्विज आभरन्। अहरन्। आनीतवन्त इत्यर्थः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९