मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८३, ऋक् १

संहिता

अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।
इ॒ह प्र॒जामि॒ह र॒यिं ररा॑ण॒ः प्र जा॑यस्व प्र॒जया॑ पुत्रकाम ॥

पदपाठः

अप॑श्यम् । त्वा॒ । मन॑सा । चेकि॑तानम् । तप॑सः । जा॒तम् । तप॑सः । विऽभू॑तम् ।
इ॒ह । प्र॒ऽजाम् । इ॒ह । र॒यिम् । ररा॑णः । प्र । जा॒य॒स्व॒ । प्र॒ऽजया॑ । पु॒त्र॒ऽका॒म॒ ॥

सायणभाष्यम्

अपश्यमिति तृचं द्वात्रिंशं सूक्तं त्रैष्टुभम्। प्रजापतिपुत्रः प्रजावान्नामर्षिः। ऋचः क्रमेण यजमानपत्नीहोतॄणामशिषः प्रतिपादिकाः। अतस्तद्देवताकाः। तथा चानुक्रान्तम्। अपश्यं प्रजावान्प्राजापत्योऽन्वृचं यजमानपत्नीहोत्राशिष इति। प्रवर्ग्येऽभिष्टव एतत्सूक्तम्। सूत्र्यते हि। अपश्यम् त्वेत्येतस्याद्यया यजमानमीक्षते द्वितीयया पत्नीं तृतीययात्मानम्। आ. ४-६। इति॥

हे यजमान त्वा त्वां मनसा बुद्ध्यापश्यम्। अदर्शम्। कीदृशम्। चेकितानं कर्माणि भृशं जानन्तं तपसो दीक्षारूपाद्व्रताज्जातं पुनरुत्पन्नं यद्वा जन्मान्तरानुष्ठातात्सुकृतादुत्पन्नं तपसोऽनुष्ठीयमानाद्यज्ञाद्धेतोर्विभूतं व्याप्तं सर्वत्र प्रख्यातम्। हे पुत्रकाम पुत्रान्कामयमान स त्वमिहास्मिल्लोके प्रजां पुत्रपौत्रादिरूपां रराणो रमयन् रयिं धनमैहास्मिल्लोके रमयन् प्रजया प्रजनेन प्र जायस्व। पुत्रादिरूपेणोत्पद्यस्व। प्रजा उत्पादयेत्यर्थः॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१