मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८३, ऋक् ३

संहिता

अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः ।
अ॒हं प्र॒जा अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् ॥

पदपाठः

अ॒हम् । गर्भ॑म् । अ॒द॒धा॒म् । ओष॑धीषु । अ॒हम् । विश्वे॑षु । भुव॑नेषु । अ॒न्तरिति॑ ।
अ॒हम् । प्र॒ऽजाः । अ॒ज॒न॒य॒म् । पृ॒थि॒व्याम् । अ॒हम् । जनि॑ऽभ्यः । अ॒प॒रीषु॑ । पु॒त्रान् ॥

सायणभाष्यम्

अहं होतौषधीषु शाल्यादिषु फलार्थं गर्भमदधाम्। धारयामि। विश्वेषु सर्वेष्वन्येष्वपि भुवनेषु भूतजातेष्वन्तर्मध्येऽहमेव गर्भं धारयामि। तथा पृथिव्यां भूम्यां प्रजाः सर्वान्मनुश्यानहमजनयम्। जनयामि। जनिभ्यो जायाभ्योऽपरीष्टन्यास्वपि स्त्रीषु पुत्रानहमजनयम्। जनयामि। मत्साध्येन यागेन सर्वस्योत्पत्तेरहं सर्वजनहेतुर्भवामीत्यर्थः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१