मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८६, ऋक् १

संहिता

वात॒ आ वा॑तु भेष॒जं श॒म्भु म॑यो॒भु नो॑ हृ॒दे ।
प्र ण॒ आयूं॑षि तारिषत् ॥

पदपाठः

वातः॑ । आ । वा॒तु॒ । भे॒ष॒जम् । श॒म्ऽभु । म॒यः॒ऽभु । नः॒ । हृ॒दे ।
प्र । नः॒ । आयूं॑षि । ता॒रि॒ष॒त् ॥

सायणभाष्यम्

वात इति तृचं पञ्चत्रिंशं सूक्तं वातगोत्रस्योलस्यार्षं गायत्रं वायुदेवताकम्। तथा चानुक्रान्तम्। वातो वातायन उलो वायव्यमिति। गतो विनियोगः॥

वातो वायुर्नोऽस्माकं हृदे हृदयाय भेषजमौषधमुदकं वा वातु। आगमयतु। कीदृग्भूतम्। शम्भु रोगशमनस्य भावयितृ मयोभु सुखस्य च भावयितृ। अपि च नोऽस्माकमायूंषि प्र तारिषत्। प्रवर्धयतु॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४४