मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८६, ऋक् २

संहिता

उ॒त वा॑त पि॒तासि॑ न उ॒त भ्रातो॒त न॒ः सखा॑ ।
स नो॑ जी॒वात॑वे कृधि ॥

पदपाठः

उ॒त । वा॒त॒ । पि॒ता । अ॒सि॒ । नः॒ । उ॒त । भ्राता॑ । उ॒त । नः॒ । सखा॑ ।
सः । नः॒ । जी॒वात॑वे । कृ॒धि॒ ॥

सायणभाष्यम्

उतापि च हे वात् त्वं नोऽस्माकं पितासि। उत्पादको भवसि। उतापि च भ्राता भवसि। उतापि च नोऽस्माकं सखा समानख्यानो पितृभूतश्च भवसि। सत्वं नोऽस्माञ्जीवातवे जीवनहेतवे यागाय कृधि। कुरु। करोतेश्छान्दसो विकरणस्य लुक्। श्रुशृणुपॄक्रुवृभ्य इति हेर्धिः॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४४