मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८६, ऋक् ३

संहिता

यद॒दो वा॑त ते गृ॒हे॒३॒॑ऽमृत॑स्य नि॒धिर्हि॒तः ।
ततो॑ नो देहि जी॒वसे॑ ॥

पदपाठः

यत् । अ॒दः । वा॒त॒ । ते॒ । गृ॒हे । अ॒मृत॑स्य । नि॒ऽधिः । हि॒तः ।
ततः॑ । नः॒ । दे॒हि॒ । जी॒वसे॑ ॥

सायणभाष्यम्

हे वात वायो ते तव गृहे स्थाने यददो योऽसावम्रुतस्यामरणस्य निधिर्निक्षेपो हितः स्थापितो वर्तते ततस्तस्मान्निधेराहृत्यामृतत्वम् जीवसे नोऽस्माकं जीवनाय देहि। प्रयच्छ॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४४