मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८९, ऋक् २

संहिता

अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती ।
व्य॑ख्यन्महि॒षो दिव॑म् ॥

पदपाठः

अ॒न्तरिति॑ । च॒र॒ति॒ । रो॒च॒ना । अ॒स्य । प्रा॒णात् । अ॒प॒ऽअ॒न॒ती ।
वि । अ॒ख्य॒त् । म॒हि॒षः । दिव॑म् ॥

सायणभाष्यम्

अस्य सूर्यस्य रोचना रोचमाना दीप्तिरन्तः शरीरमध्ये मुख्यप्राणात्मना चरति। वर्तते। किं कुर्वती। प्राणादपानती। मुख्यप्राणस्य प्रानाद्याः पञ्चवृत्तयः। तत्र प्राणनं नाडीभिरुर्ध्वं वायोर्निर्गमनम्। तथाविधात्प्राणात्प्राणनादनन्तरमपानती। अपाननं नाडीभिरवाङ्मुखं वायोर्नयनम्। तत्कुर्वती। अपपूर्वादनितेर्लटः शतृ। अदादित्वाच्छपो लुक्। उगितश्चेति ङीप्। शतुरनुम इति नद्या उदात्तत्वम्। यद्वा। अन्तर्द्यावापृथिव्योर्मध्येऽस्य सूर्यस्य रोचना रोचमाना दीप्तिश्चरति। गच्छति। रुच दीप्तौ। अनुदात्तेतश्च हलादेरिति यच्। किं कुर्वती। प्राणात्प्राननादुदयानन्तरमपानती सायं समयेऽस्तं गच्छन्ती। ईदृश्या दीप्त्या युक्तः। अत एव महिषो महान्सूर्यो दिवमन्तरिक्षमुदयास्तमययोर्मध्ये व्यख्यत्। विचष्टे। प्रकाशयति। महेरविमह्योष्टषच्। उ. १-४६। इत्यौणादिकष्टिषच् प्रत्ययः। चक्षिङः ख्याञ्। छान्दसे लुङ्यस्यतिवक्तीत्यादिना च्लेरङादेशः॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४७