असृ॑ग्रमिन्द्र ते॒ गिर॒ः प्रति॒ त्वामुद॑हासत ।
अजो॑षा वृष॒भं पति॑म् ॥
असृ॑ग्रम् । इ॒न्द्र॒ । ते॒ । गिरः॑ । प्रति॑ । त्वाम् । उत् । अ॒हा॒स॒त॒ ।
अजो॑षाः । वृ॒ष॒भम् । पति॑म् ॥
हे इंद्र ते गिरस्त्वदीयाः स्तुतीरसृग्रम् । सृष्टवानस्मि । ताश्च गिरः स्वर्गेऽवस्थितं त्वां प्रत्युदहासत । उद्गत्य प्राप्नुवन् । तादृशीर्गिरस्त्वमजोषाः । सेवितवानसि । कीदृशं त्वाम् । वृषभं कामानां वर्षितारं पतिं सोमस्य पातारं यजमानानां पालयितारं वा । पाता वा पालयिता वा (नि ४-२६) इति यास्केनोक्तत्वात् ॥ असृग्रम् । असृजम् । सृज विसर्गे । लङो मिप् । तुदादिभ्यःशः (पा ३-१-७७) बहुलं छंदसि (पा ७-१-८) इत्यत्र विकरणस्य रुडागमः । जकारस्य गकारः । लुङ् लङ् लृङ् क्ष्वडुदात्त इत्यडागम उदात्तः । सति शिष्वत्वात्स एव शिष्यते । गिरः । प्रातिपदिकस्वरः । अहासत । ओहाङ् गतौ । लुङ् । झस्यादादेशः (पा ७-१-५) च्ले सिच् (पा ३-१-४४) अडागमो निघातश्च । अजोषाः । जुषी प्रीतिसेवनयोः । लङस्थास् । तुदादिभ्यः शः । तस्य छंदस्युभयथा (पा ३-४-११७) इत्यार्धधातुकत्वेन ङित्त्वाभावाल्लघूपधगुणाः । थासस्थकारलोपश्छांदसः । सवर्णदीर्घः । अडागमः । सति शिष्टत्वादुदात्तः । शिष्यते । वृषभम् । पृषु वृषु मृषु सेचने । अभिजित्यनुवृत्तावृषिवृषिभ्यां कित् (उ ३-१२३) इत्यभब् प्रत्ययः । कित्त्वाद्गुणाभावः । चित्त्वादंतोदात्तः । पतिम् । पा रक्षणे । पातेर्डतिः (उ ४-५७) डित्वाट्वलोपः । प्रत्ययाद्युदात्तत्वं ॥ ४ ॥