अग्ने॑ सु॒खत॑मे॒ रथे॑ दे॒वाँ ई॑ळि॒त आ व॑ह ।
असि॒ होता॒ मनु॑र्हितः ॥
अग्ने॑ । सु॒खऽत॑मे । रथे॑ । दे॒वान् । ई॒ळि॒तः । आ । व॒ह॒ ।
असि॑ । होता॑ । मनुः॑ऽहितः ॥
इट् शब्दाभिधेय हे अग्ने ईळितोऽस्माभिः स्तुतः सन् सुखतमेऽतिशयेन सुखहेतौ कस्मिंश्चिद्रथे देवान् स्थापयित्वा कर्मभूमावा वह । इट् शब्दाभिधेयत्वमत्र सूचयितुमीळित इति विशेषणम् । मनुर्हितो मनुना मंत्रेण मनुष्येण वा यजमानादिरूपेण हितोऽत्र स्थापितस्त्वं होता देवानामाह्वातासि ॥ सुखतमे । सुखमस्मिन्नस्तीति मतुप् । तस्य गुणवचनेभ्यो मतुपो लुग्वक्तव्यः । पा ५-२-९४-३ । इति लुक् । अतिशयेन सुखः सुखतमः । तमपोऽनुदात्तत्त्वात्प्रातिपदिक स्वरः । रथे । रमुक्रीडायाम् । रमंतेऽस्मिन्निति रथः । हनिकुषिनीरमिकाशिभ्यः क्थन् (उ २-२) इति क्थन् । एकाच उपदेशेऽनुदात्तात् (पा ७-२-१०) इतीट् प्रतिषेधः अनुदात्तोपदेशेत्यादिना (पा ६-४-३७) मकारलोपः । नित्त्वादाद्युदात्तत्वम् । ईळितः । ईड स्तुतौ । निष्ठेति क्तः । इडागमः । तस्यागमा अनुदात्ता इत्यनुदात्तः । प्रत्ययस्वरः । देवानिति नकारस्य संहितायां दीर्घादट समानपाद इति रुत्वं अतोऽट नित्यमित्याकारस्यानुनासिकभावः । भोभगो इत्यादिना रोर्यत्वम् । तस्य लोपः शाकल्यस्येति लोपः । तस्यासिद्धत्वादाद्गुणो न भवति । आ । निपातत्वादाद्युदात्तः । असि । अस भुवि । लटः सिप् । अदिप्रभृतिभ्यः शप इति शपो लुक् । तासस्त्योर्लोप इति सकारस्य लोपः । होता । ताच्छील्ये तृन् । सौ ऋदुशन इत्यादिना (पा ७-१-९४) आनङ् । ङित्त्वादंतादेशः आप्तृन्नित्यादिना (पा ६-४-११) उपधादीर्घः । हल्ङ्यादि लोपनलोपौ । नित्त्वादाद्युदात्तः । मनुर्हितः । मन्यत इति मनुः । मन ज्ञाने । शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबंधिमनिभ्यश्च (उ १-१०) इत्युप्रत्ययः । तत्र निदित नुवृत्तेर्नित्त्वा दाद्युदात्तः । हितः । दधातेर्निष्ठेति कर्मणि क्तः । दधातेर्हिः (पा ७-४-४२) इति हिरादेशः । मनुना हित इति समासे तृतीयायाः स्थाने सुपां सुलुगित्यादिना स्वित्यादेशः । तस्य रुत्वम् । लुगभावश्छांदसः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥