विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ ।
पिबा॑ मि॒त्रस्य॒ धाम॑भिः ॥
विश्वे॑भिः । सो॒म्यम् । मधु॑ । अग्ने॑ । इन्द्रे॑ण । वा॒युना॑ ।
पिब॑ । मि॒त्रस्य॑ । धाम॑ऽभिः ॥
हे अग्ने त्वं विश्वेभिः सर्वैः पूषभगादिभिर्देवैरिंद्रेण वायुना मित्रस्य संबंधिभिर्धामभिस्तेजोभिर्मूर्तिविशेषरूपैश्च सह सोम्यं सोमसंबंधि मधु मधुरं भागं पिब ॥ विश्वेभिः बहुलं छंदसीति भिस ऐसादेशाभावः । सोम्यम् । सोममर्हति य इत्यनुवृत्तौ मये च (पा ४-४-१३८) इति यप्रत्ययः सोमस्य विकार इत्यर्थे । यस्येति चेत्यकारलोपः । प्रत्ययस्वरः । फलिपाटनमिमनीत्यादिना (उ १-१९) उप्रत्ययः । निदित्यनुवृत्तेर्नित्त्वादाद्युदात्तः । वायुना । क्यवापाजीत्यादिना उण् । अतो युक् चिण्कृतोः (पा ७-३-३३) इति युक् । प्रत्ययस्वरः । पिब पा पाने । लोटः सेर्हिरादेशः । शपि पाघ्रेत्यादिना पिबादेशः । अतो हेरिति हेर्लुक् । तपः पित्त्वाद्धातुस्वरः । पादादित्वान्न निघातः । द्व्यचोऽशस्तिङ इति संहितायां दीर्घः । धामभिः । धाञ् । आतो मनिन्निति मनिन् । नित्स्वरः ॥ १० ॥