त्वं होता॒ मनु॑र्हि॒तोऽग्ने॑ य॒ज्ञेषु॑ सीदसि ।
सेमं नो॑ अध्व॒रं य॑ज ॥
त्वम् । होता॑ । मनुः॑ऽहितः । अग्ने॑ । य॒ज्ञेषु॑ । सी॒द॒सि॒ ।
सः । इ॒मम् । नः॒ । अ॒ध्व॒रम् । य॒ज॒ ॥
हे अग्ने मनुर्हितो मनुषा होत्रादिरूपेण मनुष्येण हितः संपादितो होमनिष्पादको यस्त्वं यज्ञेषु सीदसि तिष्ठसि स त्वं नोऽस्मदीयमिमम ध्वरं यज्ञं यज निष्पादय ॥ मनुर्हितः । मन्यत इति मनुः । निच्चेत्यनुवृत्तौ बहुलमन्यत्रापि (उ २-१२२) उस् । नित्त्वादाद्युदात्तः । हितः । धाञो धातो र्निष्ठेति क्त प्रत्ययः । दधातेर्हिरिति हिरादेशः । मनुषा हितो मनुर्हितः । कर्तृकरणे कृता बहुलमिति समासः । कृत्स्वरापवादेन तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । सीदसि । षद्लृविशरणगत्यवसादनेषु । लटः सिप् । शपि पाघ्राध्मेत्यादिना सीदादेशः । निघातः । सेममित्यत्र संहितायां सोऽचि लोपे चेत्पादपूरणम् । पा ६-१-१-३४ ॥ इति सोर्लोपे गुणः । अध्वरम् । न विद्यते ध्वरो हिंसा यस्मिन्सोऽध्वरः नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । नो अध्वरमित्यत्र संहितायामेजिः पदां तादति (पा ६-१-१०९) इति पूर्वं रूपं प्राप्तं प्रकृत्यांतः पादमव्यपर इति प्रकृति भावान्निवर्तते ॥ ११ ॥