उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय ।
अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥
उत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒मम् । श्र॒थ॒य॒ ।
अथ॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गसः । अदि॑तये । स्या॒म॒ ॥
हे वरुण उत्तममुत्कृष्टं शिरसि बद्धं पाशमस्मदस्मत्त उच्छ्रथाय । उत्कृष्य शिथिलं कुरु । अधमं निकृष्टं पादेऽवस्थितं पाशमव श्रथाय । अधस्तादवकृष्य शिथिलीकुरु । मध्यमं नाभिप्रदेशगतं पाशं वि श्रथाय । वियुज्य शिथिलीकुरु । अथानंतरं हे आदित्य अदितेः पुत्र वरुण वयं शुनःशेपास्तव व्रते त्वदीये कर्मण्यदितये खंडनराहित्यायानागसोऽपराधरहिताः स्याम । भवेम ॥ उत्तमम् । तमपः पित्त्वादनुदात्तत्वेनाद्युदात्तत्वे प्राप्त उत्तमशश्वत्तमौ सर्वत्रेत्युंछादिषु पाठादंतोदात्तत्वम् (पा ६-१-१६०) अधमम् । अवद्यावमाधमार्वरेफाः कुत्सिते (उ ५-५४) इत्यवतेरमच् । वस्य धः । श्रथाय । श्रथ दौर्बल्ये । संहितायां छांदसो दीर्घः । तव । युष्मदस्मदोर्ङसीत्यद्युदात्तत्वम् । अनागसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नञ् सुभ्यामिति तु व्यत्ययेन प्रवर्तते । यद्वा । आगस् शब्दादस्मायामेधेति (पा ५-२-१२१) मत्वर्थीयो विनिः । तस्य विन्मतोर्लुक् (पा ५-३-६५) इति लुक् । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ १५ ॥