शश्व॒दिन्द्र॒ः पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भि॒ः शाश्व॑सद्भि॒र्धना॑नि ।
स नो॑ हिरण्यर॒थं दं॒सना॑वा॒न्त्स नः॑ सनि॒ता स॒नये॒ स नो॑ऽदात् ॥
शश्व॑त् । इन्द्रः॑ । पोप्रु॑थत्ऽभिः । जि॒गा॒य॒ । नान॑दत्ऽभिः । शाश्व॑सत्ऽभिः । धना॑नि ।
सः । नः॒ । हि॒र॒ण्य॒ऽर॒थम् । दं॒सना॑ऽवान् । सः । नः॒ । स॒नि॒ता । स॒नये॑ । सः । नः॒ । अ॒दा॒त् ॥
तुष्टेनेंद्रेण दत्तं हिरण्यरथमनया प्रतिजग्राह । तथा च ब्राह्मणम् । तस्म इंद्रः स्तूयमानः प्रीतो मनसा हिरण्यरथं ददौ तमेतया प्रतीयाय शश्वदिंद्र इति । ऐ ब्रा ७-१६ । इति ॥ इंद्रः तत्वत्सर्वदाधनानि वैरिसंबंधीनि जिगाय । जितवान् । अश्वैरिति शेषः । कीदृशैः । पोप्रुथद्भिः । घासभक्षणानंतरभाविनमोष्ठशब्द कुर्वद्भिः नानदद्भिर्नादमास्यगतं हेषाशब्दं कुर्वद्भिः शाश्वसद्भिः पुनःपुनर्भृतं वा श्वसद्भिः । दंसनावान् कर्मवान् सनिता दाता स इंद्रो नोऽस्माकं सनये संभजनार्थं हिरण्यरथं सुवर्णेन निर्मितं रथमदात् । दत्तवान् । स नः स न इति द्विरुक्तिरादरार्थं ॥ पोप्रुथद्भिः । प्रोथृ पर्याप्तौ अस्माद्यङ् लुक्यभ्यासहलादिशेषौ । ह्रस्वः (पा ७-४-५९) इति ह्रस्वत्वे कृते गुणो यङ् लुकोः (पा ७-४-८२) इति गुणः । धातोरुपधाया उत्वं छांदसम् । अस्माद्यङ् लुगंताच्छतर्यभ्यस्तानामादिरित्याद्युदात्तत्वम् । जिगाय । जि जये । लिटो णलि वृद्धिः । द्विर्वचनेऽचीति स्थानिवद्भावाज्जि इत्यस्य । द्विर्वचनम् । सन् लिटोर्जेः (पा ७-३-५७) इत्यभ्यासादुत्तरस्य कुत्वम् । नानदद्भिः । णद आव्यक्ते शब्दे । पूर्ववद्यङ् लुकि दीर्घोऽकित इत्यभ्यासस्य दीर्घः । पूर्ववदाद्युदात्तत्वम् । शाश्वसद्भिः । श्वस प्राणने । अन्यत्सर्वं पूर्ववत् । हिरण्यरथम् । समासस्येत्यंतोदात्तत्वम् । अदात् । गातिस्थेति सिचो लुक् । दंसनावान् । दंसशब्द अप्नो दंसो वेष इति कर्मनामसु पठितः । दंस एव दंसना । तदस्यास्तीति मतुप् । दस्यतेऽनेनेति दंसना ॥ १६ ॥