अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू॑तिभिः ।
अ॒यं सोमः॑ सुदानव॒स्तं पा॑त ति॒रोअ॑ह्न्यम् ॥
अ॒र्वाञ्च॑म् । दैव्य॑म् । जन॑म् । अग्ने॑ । यक्ष्व॑ । सहू॑तिऽभिः ।
अ॒यम् । सोमः॑ । सु॒ऽदा॒न॒वः॒ । तम् । पा॒त॒ । ति॒रःऽअ॑ह्न्यम् ॥
हे अग्ने अर्वांचमभिमुखं दैव्यं जनं देवतारूपं प्राणिनं सहूतिभिः समानाह्वानैर्देवांतरैः सह यक्ष्व । यज । हे सुदानवः सुष्ठु फलदातारो देवाः अयं सोमो युष्मदर्थं सोमः पुरुतो वर्तते । तं सोमं पात । पिबत । कीदृशम् । तिरोअह्न्यमेतन्नामकम् । पूर्वस्मिन्नह्न्यभिषुतो यः सोम उत्तरेऽहनि हूयते तस्यैतन्नामधेयं ॥ दैव्यम् । देवाद्यञञाविति प्राग्दीव्यतीयो यञ् । यक्ष्व । लोट बहुलं छंदसीति शपो लुक् । प्रत्ययस्वराभावश्छांदसः । अग्न इत्यस्य पादादौ वर्तमानस्यामंत्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वात् तिङ्ङतिङ इति निघाताभावः । सहूतिभिः । समानाहूतिराह्वानं येषां ते सहूतयः । समानस्य च्छंदसीति सभावः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पात । पा पानॆ । बहुलं छंदसीति शपो लुक् । तिरो अह्न्यम् । अहनि भवमह्न्यम् । भवे छंदसीति यत् । नस्तद्धित इति टलोपो न भवति अह्नष्टखोरेव (पा ६-४-१४५) इति नियमात् । भसंज्ञायामल्लोपोऽन इत्यकारलोपः । ये चाभावकर्मणोः (पा ६-४-१६८) इति प्रकृतिभावस्तु सर्वविधीनां छंदसि विकल्पितत्पान्न क्रियते । तिरोहितोऽह्न्यस्तिरोअह्न्यः । प्रकृत्यांतःपादमिति प्रकृतिभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ३२ ॥ १० ॥