स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे ।
इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ॥
सः । पर्व॑तः । न । ध॒रुणे॑षु । अच्यु॑तः । स॒हस्र॑म्ऽऊतिः॑ । तवि॑षीषु । व॒वृ॒धे॒ ।
इन्द्रः॑ । यत् । वृ॒त्रम् । अव॑धीत् । न॒दी॒ऽवृत॑म् । उ॒ब्जन् । अर्णां॑सि । जर्हृ॑षाणः । अन्ध॑सा ॥
अंधसा सोमलक्षणेनान्नेन जर्हृषाणोऽत्यर्थं हृष्यन्निंद्रो यद्यदा वृत्रं त्रयाणां लोकानामावरीतारमसुरमवधीत् । हतवान् । कीदृशं वृत्रम् । नदीवृतम् । नदनान्नद्य आपः । तासामावरीतारम् । किं कुर्वन्निंद्रः । अर्णांसि जलान्युब्जन् । अधःपातयन् । तदानीं स इंद्रः पर्वतो न पर्ववान् शिलोच्चय इव धरुणेषु सर्वस्य धारकेषूदकेषु मध्येऽच्युतश्च लनराहित्येन स्थितः सहस्रमूतिर्बहुविधरक्षणवान् तविषीषु बलेषु वावृदे । प्रवृद्धो बभूव ॥ धरुणेषु । धारयतेर्णिलुक् चेत्युन प्रत्ययः । प्रत्ययस्वरः । सहस्रमूतिः । सहस्रमूतयो यस्यासौ । लुगभावश्छांदसः । वावृधे । संहितायामभ्यासस्यान्येषामपि दृश्यत इति दीर्घत्वम् । नदीवृतम् । नदीं वृणोतीति नदीवृत् । क्विप् । तुगागमः । उब्जन् । उब्ज आर्जवे । विकरणस्वरः । अर्णांसि उदके नुट्च (उ ४-१९६) इत्यर्तेरसुन् प्रत्ययस्तत्सन्नियोगेन नुडागमश्च । नित्त्वादाद्युदात्तत्वम् । जर्हृषाणः । हृष तुष्टौ । यङ् लुगंताद्व्यत्ययेन शानच् । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । यद्वा । यङिंतादेव शानचि बहुलं छंदसीति शपो लुक् । छंदस्युभयथेति शानच् । आर्धधातुकत्वादतोलोप यलोपौ । सार्वधातुकत्वाच्चाभ्यस्तस्याद्युदात्तत्वम् । अंधसा । अद्यत इत्यंधः । अदेर्नुम् धश्च (उ ४-२०५) इत्यसुन् । धातोर्नुमागमो धकारांतादेशश्च नित्त्वादाद्युदात्तत्वं ॥ २ ॥