न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः ।
नोत स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑त॒ एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ॥
न । यस्य॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ । व्यचः॑ । न । सिन्ध॑वः । रज॑सः । अन्त॑म् । आ॒न॒शुः ।
न । उ॒त । स्वऽवृ॑ष्टिम् । मदे॑ । अ॒स्य॒ । युध्य॑तः । एकः॑ । अ॒न्यत् । च॒कृ॒षे॒ । विश्व॑म् । आ॒नु॒षक् ॥
यस्येंद्रस्य व्यचो व्यापनं द्यावापृथिवी द्यावापृथिव्नौ नान्वानशाते प्राप्तुमसमर्थे बभूवतुः । तथा रजसोऽंतरिक्षलोकस्योपरि सिंधवः स्यंदनशीला आपो यस्येंद्रस्य तेजसोऽंतमवसानं नानशुः न प्रापुः । उतापि च सोमपानेन मदे हर्षे सति स्ववृष्टिं स्वीकृतवृष्टिं वृत्रादिं युध्यतो युध्यमानस्येंद्रस्य बलस्यांतं वृत्रादयो न प्रापुः । अतो हे इंद्र एकस्त्वमन्यत्स्वव्यतिरिक्तं विश्वं सर्वं भूतजातमानुषक् आनुषक्तं चकृषे । सकलमपि भूतजातं त्वदधीनमभूदिति भावः ॥ द्यावापृथिवी । द्यौश्च पृथिवी च दिवो द्यावा (पा ६-३-२९) इति द्यावादेश आद्युदात्तो निपातितः । पृथिवीशब्दः षिद्गौरादिभ्यश्चेति रुद्रपूषमंथिष्विति पर्युदासान्नोत्तरपदेऽनुदात्तादाविति निषेधाभावः । व्यचः व्यचेः कुटादित्वमनसि । का १-२-१-१ । इति वचनात् । ङित्त्वाभावे संप्रसारणाभावः । आनशुः । अश्नोतेर्व्यत्ययेन परस्मैपदम् । आत आदेरित्यभ्यासस्यात्वम् । अश्नोतेश्चेति नुडागमः ॥ १४ ॥